तर्कसंग्रहः

तर्कसंग्रहः

 

निधाय हृदि विश्वेशं विधाय गुरुवन्दनम्

बालानां सुखबोधाय क्रियते तर्कसंग्रहः

द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्थाः

१.   तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसिनवैव

२.   रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराश्चतुर्विंशतिगुणाः

३.   उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि

४.   परमपरं चेति द्विविधं सामान्यम्

५.   नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव

६.   समवायस्त्वेक एव

७.   अभावश्चतुर्विधः प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्याभावश्चेति

Ø द्रव्य-

    I.        गन्धवतीपृथिवी सा द्विविधा नित्यानित्या नित्या परमाणुरूपा अनित्या कार्यरूपा पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् शरीरमस्मदादीनाम् इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति विषयो मृत्पाषाणादिः

  II.        शीतस्पर्शवत्यआपः ता द्विविधाः नित्या अनित्याश्च नित्याः परमाणुरूपाः अनित्याः कार्यरूपाः. पुनस्त्रिविधाः. शरीरेन्द्रियविषयभेदात् शरीरं वरुणलोके इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति विषयः सरित्समुद्रादिः

III.        उष्णस्पर्शवत्तेजः तद्द्विविधं नित्यमनित्यं ।नित्यं परमाणुरूपम् अनित्यं कार्यरूपम् पुनस्त्रिविधं शरीरेन्द्रियविषयभेदात् शरीरमादित्यलोके इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति विषयश्चतुर्विधः भौमदिव्यौदर्याकरजभेदात् भौमं वह्न्यादिकम् अबिन्धनं दिव्यं विद्युदादि भुक्तस्य परिणामहेतुरौदर्यम्. आकरजं सुवर्णादि

IV.        रूपरहितस्पर्शवान्वायुः द्विविधो नित्योऽनित्यश्च नित्यः परमाणुरूपः अनित्यः कार्यरूपः पुनस्त्रिविधः शरीरेन्द्रियविषयभेदात् शरीरं वायुलोके इन्द्रियं स्पर्शग्राहकं त्वक्सर्वशरीरवर्ति विषयो वृक्षादिकम्पनहेतुः शरीरान्तःसंचारी वायुः प्राणः चैकोऽप्युपाधिभेदात्प्राणापानादिसंज्ञालभते

  V.        शब्दगुणमाकाशम् तच्चैकं विभु नित्यं

VI.        अतीतादिव्यवहारहेतुःकालः चैको विभुर्नित्यश्च

VII.        प्राच्यादिव्यवहारहेतुर्दिक् सा चैका विभ्वी नित्या

VIII.        ज्ञानाधिकरणमात्मा द्विविधः परमात्मा जीवात्मा तत्रेश्वरः सर्वज्ञः परमात्मैक एव जीवात्मा प्रतिशरीरं भिन्नो विभुर्नित्यश्च

IX.        सुखाद्युपलब्धिसाधनमिन्द्रियंमनः तच्च प्रत्यात्मनियतत्वादनन्तंपरमाणुरूपं नित्यं

Ø गुण-

चक्षुर्मात्रग्राह्यो गुणोरूपम् तच्चशुक्लनीलपीतरक्तहरितकपिशचित्रभेदात्सप्तविधंपृथिवीजलतेजोवृत्ति तत्र पृथिव्यां सप्तविधम् अभास्वरशुक्लं जले भास्वरशुक्लं तेजसि

रसनग्राह्यो गुणोरसः मधुराम्ललवणकटुकषायतिक्तभेदात्षड्विधः पृथिव्यां षड्विधः जले मधुर एव

घ्राणग्राह्यो गुणोगन्धः द्विविधः सुरभिरसुरभिश्च पृथिवीमात्रवृत्तिः

त्वगिन्द्रियमात्रग्राह्यो गुणोसपर्शः त्रिविधः शीतोष्णानुष्णाशीतभेदात् पृथिव्यप्तेजोवायुवृत्तिः तत्र शीतो जले उष्णस्तेजसि अनुष्णाशीतः पृथिवीवाय्वोः रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं अन्यत्रापाकजं नित्यमन्त्यं नित्यगतं नित्यम् अनित्यगतमनित्यम्

एकत्वादिव्यवहारहेतुः संख्या नवद्रव्यवृत्तिरेकत्वादिपरार्धपर्यन्ता एकत्वं नित्यमनित्यं नित्यगतं नित्यमनित्यगतमनित्यम् द्वित्वादिकं तु सर्वत्रानित्यमेव।

मानव्यवहारकारणं परिमाणम् नवद्रव्यवृत्ति तच्चतुर्विधम् अणु महद्दीर्घं ह्रस्वं चेति।

पृथग्व्यवहारकारणं पृथग्त्वम् सर्वद्रव्यवृत्ति

संयुक्तव्यवहारहेतुः संयोगः सर्वद्रव्यवृत्तिः

संयोगनाशकोगुणो विभागः सर्वद्रव्यवृत्तिः

परापरव्यवहारासाधारणकारणे परत्वापरत्वे पृथिव्यादिचतुष्टयमनोवृत्तीति ते द्विविधे दिक्कृते कालकृते दूरस्थे दिक्कृतं परत्वम् समीपस्थे दिक्कृतमपरत्वम् ज्येष्ठे कालकृथं परत्वम् कनिष्ठे कालकृतमपरत्वम्

आद्यपतनासमवायिकारणं गुरुत्वम् पृथिवीजलवृत्ति

आद्यस्यन्दनासमवायिकारणं द्रवत्वंपृथिव्यप्तेजोवृत्ति तद्द्विविधं सांसिद्धिकं नैमित्तिकं सांसिद्धिकं जले नैमित्तिकं पृथिवीतेजसोः पृथिव्यां घृतादावग्निसंयोगजन्यंदरवत्वम् तेजसि सुवर्णादौ

चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः जलमात्रवृत्तिः

श्रोत्रग्राह्यो गुणःशब्दः आकाशमात्रवृत्तिः द्विविधो द्वन्यात्मको वर्णात्मकश्चेति द्वन्यात्मको भेर्यादौ वर्णात्मकः संस्कृतभाषादिरूपः

सर्वव्यवहारहेतुर्बुद्धिर्ज्ञानम् सा द्विविधा स्मृतिरनुभवश्च संस्कारमात्रजन्यं ज्ञानं स्मृतिः तद्भिन्नं ज्ञानमनुभवः द्विविधो यथार्थोऽयथार्थश्च तद्वति तत्प्रकारकोऽनुभवो यथार्थः यथा रजत इदं रजतमिति ज्ञानम् एव प्रमेत्युच्यते तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः यथा शुक्ताविदं रजतमिति ज्ञानम्

यथार्थानुभवश्चतुर्विधः प्रत्यक्षानुमित्युपमितिशब्दभेदात् तत्करणमपि चतुर्विधं प्रत्यक्षानुमानोपमानशब्दभेदात्

असाधारणंकारणं करणम्

कार्यनियतपूर्ववृत्ति कारणम्

कार्यंप्रागभावप्रतियोगि

कारणं त्रिविधं समवाय्यसमवायिनिमित्तभेदात्

१.   यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम्।यथा तन्तवः पटस्य पटश्च स्वगतरूपादेः।

२.   कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतत्वे सति यत्कारणं तदसमवायिकारणम् यथा तन्तुसंयोगः पटस्य तन्तुरूपं पटरूपस्य।

३.   तदुभयभिन्नं कारणं निमित्तकारणम् यथा तुरीवेमादिकं पटस्य।

तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम्

तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् इन्द्रियार्थसन्निकर्षजन्यं ज्ञानंप्रत्यक्षम् ।तद्द्विविधं निर्विकल्पकंसविकल्पकं चेति तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकं यथेदं किंचित् सप्रकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयं ब्रह्मणोऽयं श्यामोऽयमिति

प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षःषड्विधः संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायो विशेषणविशेष्यभावश्चेति

·       चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः

·       घटरूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः चक्षुःसंयुक्ते घटे रूपस्य समवायात्।

·       रूपत्वसामान्यप्रत्यक्षेसंयुक्तसमवेतसमवायः सन्निकर्षः चक्षुःसंयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात्

·       श्रोत्रेण शब्दस्याकाशगुणत्वात्गुणगुणिनोश्चसमवायात्।

·       शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात्।

·       अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षो घटाभाववद्भूतलमित्यत्रचक्षुःसंयुक्ते भूतले घटाभावस्य विशेषणत्वात्।

 एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षम् तत्करणमिन्द्रियम् तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम्

अनुमितिकरणमनुमानम् परामर्शजन्यं ज्ञानमनुमितिः व्याप्तिविशिष्टपक्षधर्मताज्ञानंपरामर्शः यथा वह्निव्याप्यधूमवानयंपर्वत इति ज्ञानं परामर्शः तज्जन्यं पर्वतो वह्निमानिति ज्ञानमनुमितिः यत्र यत्र धूमस्तत्राग्निरिति साहचर्यनियमो व्याप्तिः व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता

अनुमानं द्विविधं स्वार्थं परार्थं तत्र स्वार्थं स्वानुमितिहेतुः तथा हि स्वयमेव भूयो दर्शनेन यत्र धूमस्तत्र अग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतस्तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र धूमस्तत्राग्निरिति तदन्तरं वह्निव्याप्यधूमवानयंपर्वत इति ज्ञानमुत्पद्यते अयमेव लिङ्गपरामर्षमित्युच्यते तस्मात्पर्वतो वह्निमानिति ज्ञानमनुमितिरुत्पद्यते तदेतत्स्वार्थानुमानम् यत्तु स्वयं धूमादग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं प्रयुक्ते तत्परार्थानुमानम् यथा पर्वतो वह्निमान्। धूमवत्त्वात् यो यो धूमवान् वह्निमान् यथा महानसः तथा चायम् तस्मात्तथेति अनेन प्रतिपादिताल्लिङ्गात्परोऽप्यग्निंप्रतिपद्यते

प्रतिज्ञाहेतूदाहरणोपनयनिगमानि पञ्चावयवः पर्वतो वह्निमानिति प्रतिज्ञा धूमवत्त्वादिति हेतुः यो यो धूमवान् सोऽग्निमान् यथा महानस इत्युदाहरणम् तथा चायमिति उपनयः तस्मात्तथेति निगमनम्

स्वार्थानुमितिपरार्थानुमित्योर्लिङ्गपरामर्शएव करणम् तस्माल्लिङ्गपरामर्शाऽनुमानम्

लिङ्गं त्रिविधम् अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति

१.   अन्वयेन व्यतिरेकेण व्याप्तिमदन्वयव्यतिरेकि यथा वह्नौ साध्ये धूमवत्त्वम् यत्र धूमस्तत्राग्निर्यथा महानस इत्यन्वयव्याप्तिः यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाह्रद इति व्यतिरेकव्याप्तिः

२.   अन्वयमात्रव्याप्तिकं केवलान्वयि यथा घटोऽभिधेयः प्रमेयत्वात्पटवत् अत्र प्रमेयत्वाभिध्यत्वयोर्व्यतिरेकव्याप्तिर्नास्तिसर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च

३.   व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि यथा पृथिवी तरेभ्यो भिद्यते गन्धवत्त्वात् यदितरेभ्यो भिद्यते तद्गन्धवत् यथा जलम् चेयं तथा तस्मान्न तथेति अत्र यद्गन्धवत्तदितरभिन्नमित्यन्वयदृष्टन्तोनास्ति पृथिवीमात्रस्य पक्षत्वात्

      संदिग्धसाध्यवान्पक्षः यथा धूमवत्त्वेहेतौ पर्वतः

      निश्चितसाध्यवान् सपक्षः यथातत्रैव महानसः

      निश्चितसाध्याभाववान् विपक्षः यथातत्रैव महाह्रदः

 सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताःपञ्च हेत्वाभासाः

१.    सव्यभिचारोऽनैकान्तिकः त्रिविधः साधारणासाधारणानुपसंहारिभेदात्।

·       तत्रसाध्याभाववद्वृत्तिः साधारणोअनैकान्तिकः यथा पर्वतो वह्निमान् प्रमेयत्वादिति प्रमेयत्वस्य वह्न्यभाववति ह्रदे विद्यमानत्वात्।

·       सर्वसपक्षविपक्षव्यावृत्तोऽसाधारणः यथा शब्दो नित्यः शब्दत्वादिति शब्दत्वं सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्चव्यावृत्तं शब्दमात्रवृत्ति।

·       अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी यथा सर्वमनित्यं प्रमेयत्वादिति अत्र सर्वस्यापि पक्षत्वाद्दृष्टान्तोनास्ति

२.    साध्याभावव्याप्तोहेतुर्विरुद्धः यत्र शब्दो नित्यः कृतकत्वादिति कृतकत्वं हि नित्यत्वाभावेनानित्यत्वेनव्याप्तम्

३.   यस्यसाध्याभावसाधकं हेत्वन्तरंविद्यते सत्प्रतिपक्षः यथा शब्दो नित्यः श्रावणत्वाच्छब्दत्ववदिति शब्दोऽनित्यः कार्यत्वाद्घटवदिति

४.   असिद्धस्त्रिविधः आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासिद्धश्चेति।

·       आश्रयासिद्धो यथा गगनारविन्दं सुरभ्यरविन्दत्वात्सरोजारविन्दवत् अत्र गगनारविन्दमाश्रयः नास्त्येव

·       स्वरूपासिद्धो यथा शब्दो गुणश्चाक्षुषत्वात् अत्र चाक्षुषत्वं शब्दे नास्ति शब्दस्य श्रावणत्वात्

·       सोपाधिको व्याप्यत्वासिद्धः साध्यव्यापकत्वे सति साधनाव्यापक उपाधिः।साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वंसाध्य व्यापकत्वम्। साधनवन्निष्टात्यन्ताभावप्रतियोगित्वंसाधारणाव्यपकत्वम

पर्वतो धूमवान् वह्निमत्त्वादित्यत्रार्द्रेन्धसंयोगउपाधिः तथा हि यत्र धूमस्तत्रार्द्रेन्धनसंयोगइति साध्यव्यापकता। यत्र वह्निस्तत्रार्द्रेन्धनसंयोगाभावादितिसाधनाव्यापकता एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वादार्द्रेन्धनसंयोगउपाधिः सोपाधिकत्वाद्वह्निमत्त्वंव्याप्यत्वासिद्धम्

५.   यस्यसाध्याभावः प्रमाणान्तरेण निश्चितः बाधितः यथा वह्निरनुष्णो द्रव्यत्वादिति अत्रानुष्णत्वं साध्यं तदभाव उष्णत्वं स्पार्शनप्रत्यक्षेण गृह्यत इति बाधितत्वम्

उपमितिकरणमुपमानम् संज्ञासंज्ञिसंबन्धज्ञानमुपमितिः तत्करणं सादृश्यज्ञानम् अतिदेशवाक्यार्थस्मरणमवान्तरव्यापारः तथा हि कश्चिद्गवयशब्दार्थमजानन्कुतश्चिदारण्यकपुरुषाद्गोसदृशोगवय इति श्रुत्वा वनं गतो वाक्यार्थं स्मरन् गोसदृषं पिण्डं पश्यति तदनन्तरमसौ गवयशब्दवाच्य इत्युपमितिरुत्पद्यते

आप्तवाक्यंशब्दः आप्तस्तु यथार्थवक्ता वाक्यंपदसमूहः यथा गामानयेति शक्तंपदम् अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसंकेतः शक्तिः

आकाङ्क्षायोग्यतासंनिधिश्चवाक्यार्थज्ञानहेतुः।

·       पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षा

·       अर्थाबाधो योग्यता

·       पदानामविलम्बेनोच्चारणंसंनिधिः

आकाङ्क्षादिरहितं वाक्यमप्रमाणम् यथा गौरश्वः पुरुषो हस्तीति प्रमाणमाकाङ्क्षाविरहात् अग्निना सिञ्चेदिति प्रमाणं योग्यताविरहात् प्रहरे प्रेहरेऽसहोच्चारितानिगामानयेत्यादिपदानि प्रमाणं संनिध्यभावात्

वाक्यं द्विविधम् वैदिकं लौकिकं वैदिकमीश्वरोक्तत्वात्सर्वमेवप्रमाणम् लौकिकं त्वाप्तोक्तं प्रमाणम् अन्यदप्रमाणम्। वाक्यार्थज्ञानं शब्दज्ञानम् तत्करणं शब्दः

अयथार्थानुभवस्त्रिविधः संशयविपर्ययतर्कभेदात्।

·       एकस्मिन्धर्मिनि विरुद्धनानाधर्मवैशिष्ट्यावगाहि ज्ञानंसंशयः यथा स्थाणुर्वा पुरुषो वेति

·       मिथ्याज्ञानं विपर्ययः यथा शुक्ताविदं रजतमिति

·       व्याप्यारोपेण व्यापकारोपस्तर्कः। यथा यदि वह्निर्न स्यात्तर्हि धूमोऽपि स्यादिति।

स्मृतिरपि द्विविधा यथार्थायथार्था च। प्रमाजन्या यथार्था अप्रमाजन्यायथार्था

सर्वेशामनुकूलतया वेदनीयं सुखम् सर्वेशां प्रतिकूलतया वेदनीयं दुःखम् इच्छा कामः क्रोधो द्वेषः कृतिः प्रयत्नः विहितकर्मजन्यो धर्मः    निषिद्धकर्मजन्यस्त्वधर्मः  

 बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः बुद्धीच्छाप्रयत्ना द्विविधाः नित्या अनित्याश्च। नित्या ईश्वरस्य अनित्या जीवस्य

संस्कारस्त्रिविधः। वेगो भावना स्थितिस्थापकश्चेति

·       वेगःपृथिव्यादिचतुष्टयमनोवृत्तिः।

·       अनुभवजन्यास्मृतिहेतुर्भावनात्ममात्रवृत्तिः

·       अन्यथाकृतस्य पुनस्तदवस्थापादकः स्थितिस्थापकःकटादिपृथिवीवृत्तिः

 

Ø चलनात्मकंकर्म पृथिव्यादिचतुष्टयमनोमात्रवृत्ति।

१.   ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम्। . अधोदेशसंयोगहेतुरपक्षेपणम्

२.   शरीरसंनिकृष्टसंयोगहेतुराकुञ्चनम्। . विप्रकृष्टसंयोगहेतुःप्रसारणम्

३.   अन्यत्सर्वं गमनम्

Ø नित्यमेकमनेकानुगतं सामान्यम्। द्रव्यगुणकर्मवृत्ति तद्द्विविधं परापरभेदात् परं सत्ता। अपरं द्रव्यत्वादिः

Ø नित्यद्रव्यवृत्तयो व्यावर्तकाविशेषाः

Ø नित्यसंबन्धःसमवायः अयुतसिद्धवृत्तिः। ययोर्द्वयोर्मध्ये एकमविनश्यदपराश्रितमेवावतिष्टतेतावयुतसिद्धौ यथावयवावयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति

Ø अभाव-

·       अनादिः सान्तः प्रागभावः उत्पत्तेः पूर्वं कार्यस्य

·       सादिरनन्तः प्रध्वंसः उत्पत्त्यनन्तरं कार्यस्य।

·       त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः।यथा भूतले घटो नास्तीति

·       तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः।यथा घटः पटो भवतीति

 सर्वेषां पदार्थानां यथायथमुक्तेष्वन्तर्भावात्सप्तैवपदार्था इति सिद्धम्

काणादन्यायमतयोर्बालाव्युत्पत्तिसिद्धये

अन्नंभट्टेन विदुषा रचितस्तर्कसंग्रहः


Previous
Next Post »

if any question, you can comments.... ConversionConversion EmoticonEmoticon